मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०५, ऋक् १

संहिता

च॒न्द्रमा॑ अ॒प्स्व१॒॑न्तरा सु॑प॒र्णो धा॑वते दि॒वि ।
न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

पदपाठः

च॒न्द्रमाः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒ऽप॒र्णः । धा॒व॒ते॒ । दि॒वि ।
न । वः॒ । हि॒र॒ण्य॒ऽने॒म॒यः॒ । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒तः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥

सायणभाष्यम्

चंद्रमा इत्येकोनविंशत्यृचं द्वादशं सूक्तम् । आपां पुत्रस्य त्रितस्य कूषे पतितस्य कुत्सस्य वार्षम् । तथा चोभयोः कूपपात आम्नायते । त्रितः कूपेऽवहितः काटे निबाळ्ह ऋषिरह्वदूतय इति च । त्रितस्य चापां पुत्रत्वं तैत्तिरीयाः स्पष्टमामनंति । तत एकतोऽजायत स द्वितीयमभ्यपातयत् ततो द्वितोऽजायत स तृतीयमभ्यपातयत् ततस्त्रितोऽजायत यदद्भ्योऽजायंत तदाप्यानामप्यत्वम् । तै ब्रा ३-२-८-१०, ११ । इति । तमेतमाप्यं त्रितस्तद्वेदाप्त्य इति तकारोपजनेन वयमधीमह इति । अंत्या त्रिष्टुप् । सं मा तपंतीत्येषा यवमध्या महाबृहती आद्यौ द्वावष्टाक्षरौ पादौ द्वादशाक्षरस्तृतीयस्ततो द्वावष्टाक्षरौ सा यवमध्या महाबृहती । चत्वारोऽष्टका जागतश्च महाबृहतीत्युक्त्वा मध्ये चेद्यवमध्या । अनु ९-१० । इत्युक्तलक्षणोपेतत्वात् । शिष्टाः पंक्तयः । विश्वे देवा देवता । तथा चानुक्रांतम् । चंद्रमा एकोनाप्त्यस्त्रितो वा वैश्वदेवं हि पांक्तमंत्या त्रिष्टुबष्टमी महाबृहती यवमध्येति । हीत्यभिधानादिदमादीनि त्रीणि सूक्तानि वैश्वदेवानि ॥ विनियोगः । अत्र शाट्यायनिन इतिहासमाचक्षते । एकतो द्वितस्त्रित इति पुरात्रय ऋषयो बभूवुः । ते कदाचिन्मरुभूमावरण्ये वर्तमानाः पिपासया संतप्तगात्राः संत एकं कूपमविंदन् । तत्र त्रिशाख्य एको जलपानाय कूपं प्राविशत् । स्वयं पीत्वेतरयोश्च कूपादुदकमुद्धृत्य प्रादात् । तौ तदुदकं पीत्वा त्रितंकूपे पातयित्वा तदीयं धनं सर्वमपहृत्य कूपं च रधचक्रेण पिधाय प्रास्थिषाताम् । ततः कूपे पतितः स त्रितः कूपादुत्तरीतुमशक्नुवन्सर्वे देवा मामुद्धरंत्विति मनसा सस्मार । ततस्तेषां स्तावकमिदं सूक्तं ददर्श । तत्र रात्रौ कूपस्यांतश्चंद्रमसो रश्मीन्पश्यन्परिदेवयते ॥

आप्स्वंतरिक्षासूदकमये मंडलेऽंतर्मध्ये वर्तमानः सुपर्णः शोभनपतनः । यद्वा । सुपर्ण इति रश्मिनाम । सुषुम्णाख्येन सूर्यरश्मिना युक्तश्चंद्रमा दिवि द्युलोक आ धावते । आङ् मर्यादायाम् । एकेनैव प्रकारेण धावते । शीघ्रं गच्छति । तादृशस्य चंद्रमसः संबंधिनो हे हिरण्यनेमयः सुवर्णसदृशपर्यंताः । यद्वा । हितरमणीयप्रांता । विद्युतो विद्योतमाना रश्मयो वो युष्माकं पदं पादस्थानीयमग्रं न विंदंति । मदीयानींद्रियाणि कूपेनावृतत्वान्न लभंते । अत इदमनुचितम् । तस्मात्कूपान्मामुत्तारयतेतृर्थः । अपि च हे रोदसी द्यावापृथिव्यौ मे मदीयमस्येदं स्तोत्रं वित्तम् । जानीतम् । यद्वा । मदीयं कूपपतनरूपं यदिदं दुःखं तदवगच्छतम् । मदीयं स्तोत्रं श्रुत्वा मदीयं दुःखं ज्ञात्वा वास्मात्कूपान्मामुत्तारयतमित्यर्थः ॥ चंद्रमाः । चंद्रमाह्लादनं सर्वस्य जगतो निर्मिमीत इति चंद्रमाः । चंद्रे माङो डित् (उ ४-२२७) इत्यसुन् । दासीभारादिषु पाठात्पूर्वपदप्रकृतिस्वरत्वम् । धावते । सृ गतौ । पाघ्रेत्यादिना वेगितायां धावादेशः । व्यत्ययेनात्मनेपदम् । वित्तम् । विद ज्ञाने । लोट्यदादित्वाच्छपो लुक् । पादादित्वात्तिङ्जतिङ इति निघाताभावः । अस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ १ ॥

  • अनुवाकः  १५
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०