यासां॑ ति॒स्रः प॑ञ्चा॒शतो॑ऽभिव्ल॒ङ्गैर॒पाव॑पः ।
तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥
यासा॑म् । ति॒स्रः । प॒ञ्चा॒शतः॑ । अ॒भि॒ऽव्ल॒ङ्गैः । अ॒प॒ऽअव॑पः ।
तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥
हेइन्द्र यासां पूर्वमन्त्रोक्तलक्षणानां सेनानांतिस्रःपंचाशतः त्रिगुणितपंचाशत्संख्यांसार्धशतं अभि- व्लंगैः अभिगमनैः व्लगतिर्गतिकर्मेत्युक्तम् अभिगम्य अपावपः नाशितवानसि हेइन्द्र तत्तादृशंसेना- वधादिरूपंकर्मसुमनायति सुष्ठुसंभावयतीत्यर्थः किंच हेइन्द्र तेतव अध्यर्धशतशत्रुसेनाजयरूपंमह- दपि तकदिति सुमनायति अत्यल्पमिदमितिसुष्टुमन्यते ॥ ४ ॥