मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् ६

संहिता

कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये ।
परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रव॒ः कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥

पदपाठः

कत् । धिष्ण्या॑सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता॑य । प्रऽत॑वसे । शु॒भ॒म्ऽये ।
परि॑ऽज्मने । नास॑त्याय । क्षे । ब्रवः॑ । कत् । अ॒ग्ने॒ । रु॒द्राय॑ । नृ॒ऽघ्ने ॥

सायणभाष्यम्

हे अग्ने धिष्ण्यास्वाग्नीध्रीयादिधिष्ण्येषु व्रुधसानो घृताद्याहुतिभिर्वर्धमानस्त्वं कत्कथं ब्रूयाः । प्रतवसे प्रकृष्त बलाय शुभंये शुभस्य प्रापयित्रे परिज्मने परितो गन्त्रे नासत्याय सत्यस्य नेत्रे । यद्वा । न विद्यतेऽसत्यं यस्य तस्मै वाताय वायवे । यद्वा । नासत्यायेति वचनव्यत्ययः । नासत्याभ्यामश्विभ्यां क्षे । क्षेति पृथिवीमाह । क्षियन्ति निवसन्त्यस्यां पाणिन इति । तस्यै क्षे पृथिव्यै च कत्कथं ब्रूयाः । हे अग्ने नृघ्ने नृणां पापकृतां हन्त्रे रुद्राय देवाय कत्कथमागोब्रवः । ब्रूयाः । वृधसानः । वृधु वर्धने । असानजित्यनुवृत्तावृञ्जिवृधिमन्दिसहिभ्यः किदित्यसानच् प्रत्ययः । कित्त्वादगुणण् । चित्त्वादन्तोदात्तः । शुभंये । या प्रापणे । विच् । तत्पुरुषे कृति बहुलमिति द्वितीयाया अप्यलुक् । कृत्स्वरः । क्षे । क्शि निवासगत्योः । अन्येभ्योऽपि दृश्यत इत्यधिकरणे डः । ततष्टाप् । चतुर्थ्येकवचन आतो धातोरित्यत्रात इति योगविभागादाकारलोपः । नृघ्ने । हन हिंसागत्योः । बहुलं छन्दसीति क्विप् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१