प्र॒वाच्यं॒ वच॑स॒ः किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दन्ति ।
यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥
प्र॒ऽवाच्य॑म् । वच॑सः । किम् । मे॒ । अ॒स्य । गुहा॑ । हि॒तम् । उप॑ । नि॒णिक् । व॒द॒न्ति॒ ।
यत् । उ॒स्रिया॑णाम् । अप॑ । वाःऽइ॑व । व्रन् । पाति॑ । प्रि॒यम् । रु॒पः । अग्र॑म् । प॒दम् । वेरिति॒ वेः ॥
मे मदीयास्यास्य वक्ष्यमाणस्य वचसो वाक्यस्य किं प्रवाच्यमस्ति । तथ्यमेवोच्यत इत्यर्थः । किं तद्वच इत्युच्यते । उस्रियाणाम् । गोनामैतत् । क्शीराद्युत्स्रावीणीनां गवां सम्बन्धि यत्क्षीरं वारिवोदकमिव तद्यथा सेकेनाविष्कुर्वन्ति तथाप वर्न् । अपवृण्वन्ति । दोग्धारो निणिक् । नितरां नेनेक्ति शोधयतिति निणिक् क्षीरमुच्यते । तादृक् क्षीरमनेन वैश्वानरेण गुहा गुहायामुप हितमुपनिहितं वदन्ति वेत्तारः । किञ्चायं वेर्व्याप्ताया रुपो भूम्याः प्रियं सर्वेषामाधारत्वेन प्रियभूतमग्रं श्रेष्ठं पदं स्थानं पाति । रक्षति ॥ ८ ॥