स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ ।
दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥
सः । वे॒द॒ । दे॒वः । आ॒ऽनम॑म् । दे॒वान् । ऋ॒त॒ऽय॒ते । दमे॑ ।
दाति॑ । प्रि॒याणि॑ । चि॒त् । वसु॑ ॥
देवो द्योतमानः सोऽग्निरानमं यजमानादीनानमयितुं नमस्कारतुं देवानिन्द्रादीन्वेद । क्रमेण वेत्ति । दमे यज्ञगृह ऋतायत ऋतं यज्ञमिच्छते यजमानाय प्रियाणि चिदभीष्टान्यपि वसु वसूनि पश्वादीनि धनानि दाति । ददाति । प्रयच्छति ॥ ३ ॥