मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १९

संहिता

स्तु॒त इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हन्ति ।
अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय॑न्ते॒ न मर्ता॑ः ॥

पदपाठः

स्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ।
अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥

सायणभाष्यम्

इन्द्रस्य वृत्रघ्नः पुरोडाशस्य स्तुत इन्द्र इति याज्या । सूत्रितं च । स्तुत इन्द्रो मघवा युद्ध वृत्रैवा वस्व इन्द्रः सत्यः सम्राट् । आ. ३-८ । इति ॥

युद्ध यदा खलु मघवा धनवानिन्द्रः स्तुतोऽस्माभिः स्तुतो भवति तदेन्द्र एकोऽसहय एव भूरिणि बहून्यप्रतीन्यप्रतिगमनानि । अभिगमनयुक्तानीत्यर्थः । वृत्रा वृत्राणि शत्रून्हन्ति । हिनस्ति । यस्येन्द्रस्य शर्मन् शर्मण्याश्रये वर्तमानं स्तोतारं देवा नकिर्वारयन्ते । निवारणं न कुर्वन्ति । मर्ताश्च न निवारयन्ते अस्येन्द्रस्य जरिता स्तोता प्रियो भवति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४