प्र वा॑मवोचमश्विना धियं॒धा रथ॒ः स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥
प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ ।
येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥
धियन्धाः कर्मणां धारकोऽहं हे अश्विना वां प्रावोचम् । प्रब्रवीमि । स्त्ॐइ । स्वश्वोऽजरोऽजीर्णो नित्यनूतनोऽजरयिता वा रथो योऽस्ति । येन रथेन सद्यस्तदानीमेव रजांसि लोकान्परि याथः तेन रथेन हविष्मन्तं सोमादि हविर्युक्तं तरणिं तारकं शीघ्रगामिनं भोजं भोजयितारमस्मद्यागमच्छ प्राप्तुमागच्छतमिति शेषः ॥ ७ ॥