मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १५

संहिता

नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ ।
दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभि॑ः ॥

पदपाठः

नु । म॒न्वा॒नः । ए॒षा॒म् । दे॒वान् । अच्छ॑ । न । व॒क्षणा॑ ।
दा॒ना । स॒चे॒त॒ । सू॒रिऽभिः॑ । याम॑ऽश्रुतेभिः । अ॒ञ्जिऽभिः॑ ॥

सायणभाष्यम्

नुक्षिप्रं एषां मरुतां एतान्मरुतइत्यर्थः मन्वानः स्तुवन् देवान्मरुद्भतिरिक्तान् वक्षणा वहनेननिमित्तेन अच्छ अभिप्राप्तुंनमनुते सस्तोता सूरिभिर्मेधाविभिः प्रेरयितृभिः यामश्रुतेभिः शीघ्रगमनेनविश्रुतैः अंजिभिः फलस्यव्यंजकैर्मरुद्भिः सर्वाः पंचम्यर्थेतृतीयाः उक्त- लक्षणेभ्योमरुद्भ्योदानाअभिमतदानानि सचेतसंगच्छते ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०