मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६६, ऋक् ५

संहिता

तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् ।
ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥

पदपाठः

तत् । ऋ॒तम् । पृ॒थि॒वि॒ । बृ॒हत् । श्र॒वः॒ऽए॒षे । ऋषी॑णाम् ।
ज्र॒य॒सा॒नौ । अर॑म् । पृ॒थु । अति॑ । क्ष॒र॒न्ति॒ । याम॑ऽभिः ॥

सायणभाष्यम्

हेपृथिविदेवि त्वयि तत् सर्वैरर्थ्यमानत्वेन प्रसिद्धं बृहत् प्रभूतं ऋतमुदकं ऋषीणांस्तोतॄणामस्माकं श्रवएषे अन्नस्यैषणेसति ज्रयसानौ गच्छन्तौ छन्दस्यसानच् शुजॄभ्यामित्यसानच् ज्रयतेरपिभवति चितइत्यन्तोदात्तः अरं अलं अत्यर्थंपृथुयथाभवतितथा यामभिर्गमनैः अतिक्षरन्ति अत्यर्थंवर्षत्तः व्यत्ययेनबहुवचनम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः