मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८२, ऋक् ३

संहिता

स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।
तं भा॒गं चि॒त्रमी॑महे ॥

पदपाठः

सः । हि । रत्ना॑नि । दा॒शुषे॑ । सु॒वाति॑ । स॒वि॒ता । भगः॑ ।
तम् । भा॒गम् । चि॒त्रम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

सहि सखलु सविता भगोभजनीयोदेवोदाशुषे हविर्दात्रेमह्यं रत्नानि रमणीयानिधनानि सुवाति प्रेरयतिप्रयच्छति तंदेवं भागं भजनीयं चित्रं चायनीयंधनं ईमहे याचामहे ॥ ३ ॥ अद्यानइतिचतुर्थीपंचमीभ्याममनोज्ञस्वप्नदर्शनेप्रत्यृचंजुहुयात् अद्यानोदेवसवितरितिद्वाभ्यामितिहिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५