ए॒वा न॒ः स्पृध॒ः सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥
ए॒व । नः॒ । स्पृधः॑ । सम् । अ॒ज॒ । स॒मत्ऽसु॑ । इन्द्र॑ । र॒र॒न्धि । मि॒थ॒तीः । अदे॑वीः ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । भ॒रत्ऽवा॑जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥
हेइन्द्र एव एवंस्तुतस्त्वं नोस्मदीयाःस्पृधः स्पर्धमानाः शत्रुसेनाः समत्सुसंग्रामेषु समज शत्रुवधार्थंप्रेरय किंच मिथतीर्हिंसतीःअदेवी- रासुरीः सेनाररन्धि अस्मदर्थंवशीकुरु उतापिच हेइन्द्र तेगृणन्तः त्वां स्तुवन्तोभरद्वाजावयं अवसा अन्नेन सहवस्तोर्वासस्यनिवासमित्य- र्थः नूनमवश्यं विद्याम लभेमहि ॥ ९ ॥
श्रुधीनइन्द्रेत्यष्टर्चंतृतीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते—श्रुधीनोष्टाविति । विनियोगोलैंगिकः ।