उ॒त घा॒ स र॒थीत॑म॒ः सख्या॒ सत्प॑तिर्यु॒जा ।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥
उ॒त । घ॒ । सः । र॒थिऽत॑मः । सख्या॑ । सत्ऽप॑तिः । यु॒जा ।
इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥
उतघ अपिच सःयःशत्रूणांहन्तृत्वेनप्रसिद्धस्तादृशः रथीतमः अतिशयेनरथीमहारथः सत्पतिः सतांपालयिता एवंगुणाइन्द्रःसख्यामित्र- भूतेनपूष्णायुजासहायभूतेनयुक्तः सन् वृत्राणिशत्रून् जिघ्नतेहन्ति इन्द्रस्यापिअयमेवसाहाय्यकारीत्यर्थः ॥ २ ॥