सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ ।
यजि॑ष्ठो हव्य॒वाह॑नः ॥
सः । इ॒माम् । वे॒तु॒ । वष॑ट्ऽकृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ ।
यजि॑ष्ठः । ह॒व्य॒ऽवाह॑नः ॥
यजिष्ठो यजनीयतमो यष्टृतमोवा हव्यवाहनो हव्यानां हविषां वोढा सोग्निरिमां वषट्कृतिं अस्माभिर्दीयमानामाहुतिं वेतु कामयतां भक्षयतु वा । नोस्माकं गिरः स्तुतीश्च जुषत सेवताम् ॥ ६ ॥