नू इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा॑ वावृधस्व ।
उप॑ नो॒ वाजा॑न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥
नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा॑ । व॒वृ॒ध॒स्व॒ ।
उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
हे शूरेन्द्र नु अद्य स्तवमानः स्तूयमानः ब्रह्मजूतो ब्रह्मणा स्तोत्रेण प्रेरितः तन्वा शरीरेण ववृधस्व अपि च नोस्मभ्यं वाजानन्नान् उपमि- मीहि प्रयच्छेत्यर्थः । स्तीन् गृहांश्चोपमिमीहि । स्पष्टमन्यत् ॥ ११ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थ- प्रकाशेऋक्संहिताभाष्ये पञ्चमाष्टके द्वितीयोध्यायः समाप्तः ॥ २ ॥