यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिव॒ः सखा॑ ते ।
व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठा॒ः स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥
यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ ।
व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्या॒म॒ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥
हे इन्द्र यः ते तुभ्यं प्रियः सखा जनो ददाशत् हवींषि दद्यात् । हे अद्रिवः ससखा ते तव निरेके दाने असत्स्यात् वयं च वसिष्ठाः अघ्नतो- हिंसतः ते तव अस्यां सुमतौ अनुग्रहबुद्धौ वर्तमानाश्चनिष्ठाः स्तुतिमत्तराः अतिशयेनान्नवन्तोवा चनोन्नं नृपीतौ नृणां रक्षके वरूथे गृहे वरणीये वा धने स्याम वसेम भवेम वा ॥ ८ ॥