स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥
स॒ऽजूः । दे॒वेभिः॑ । अ॒पाम् । नपा॑तम् । सखा॑यम् । कृ॒ध्व॒म् । शि॒वः । नः॒ । अ॒स्तु॒ ॥
हे स्तोतः अपामुदकानां नपातं पुत्रमग्निं सूनुः नपादित्यपत्यनामसु पाठात् देवेभिर्देवैः सजूः सह सखायं मित्रं स्तुतिभिः कृध्वं कुरुध्वम् । स़चापांनपात नोस्मभ्यं शिवः सुखकरोस्तुभवतु ॥ १५ ॥