मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १

संहिता

क ईं॒ व्य॑क्ता॒ नर॒ः सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वा॑ः ॥

पदपाठः

के । ई॒म् । विऽअ॑क्ताः । नरः॑ । सऽनी॑ळाः । रु॒द्रस्य॑ । मर्याः॑ । अध॑ । सु॒ऽअश्वाः॑ ॥

सायणभाष्यम्

व्यक्ताः कान्तियुक्ताः नरोनेतारः सनीळाः समानौकसः रुद्रस्य महादेवस्य पुत्राः मर्याः मर्येभ्येनृभ्योहिताः अध अपिच स्वश्वाः शॊभन- वाहाः ईं इमे एवंभूताः के भवन्तीति रूपातिशयादृषिराश्चर्येणाह ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३