उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥
उ॒ग्रम् । वः॒ । ओजः॑ । स्थि॒रा । शवां॑सि । अध॑ । म॒रुत्ऽभिः॑ । ग॒णः । तुवि॑ष्मान् ॥
हे मरुतः वोयुष्माकं ओजस्तेजः उग्रमुद्गूर्णं भवतु शवांसि युष्मदीयानि बलानि स्थिरा स्थिराणि कैश्चिदनपहर्तव्यानि भवन्तु अध अपिच मरुद्भिः गणः मरुतां संघः तुविष्मान् वृद्धिमान् भवतु ॥ ७ ॥