मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ११

संहिता

यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः ।
सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥

पदपाठः

यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः ।
सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥

सायणभाष्यम्

योयजमानोब्रह्मणे परिवृढस्वकर्मणे युष्मत्स्तोत्ररूपाय सुमतिं शोभनां बुद्धिं आयजाते आयजते यजतिरत्रदाने ददाति करोति । किमर्थं वाजस्यान्नस्य सातौ दाने निमित्ते परमस्योत्कृष्टस्य रायोधनस्य च सातौ तस्य् अर्यः ईरयति स्तुतीः प्रेरयतीत्यरिः स्तोता तस्य मन्युं स्तोत्रं मघवानोदानवन्तोर्यमादयः सीक्षन्त सचन्ते सेवित्वाच तस्योरुक्षयाय विस्तीर्णनिवासाय सुधातु सुधाम शोभनस्थानं चक्रिरे कुर्वते ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः