यो वेदि॑ष्ठो अव्य॒थिष्वश्वा॑वन्तं जरि॒तृभ्य॑ः ।
वाजं॑ स्तो॒तृभ्यो॒ गोम॑न्तम् ॥
यः । वेदि॑ष्ठः । अ॒व्य॒थिषु॑ । अश्व॑ऽवन्तम् । ज॒रि॒तृऽभ्यः॑ ।
वाज॑म् । स्तो॒तृऽभ्यः॑ । गोऽम॑न्तम् ॥
यइन्द्रः अव्यथिषु अव्यथयितृषु सुखकरेषु स्तोतृषु वेदिष्ठःअतिशयेन वेदिता कृतस्य स्तोत्रस्य ज्ञाता सइन्द्रोजरितृभ्यः शंसितृभ्योहोत्रा- दिभ्यः प्रस्तोत्रादिभ्यश्च अश्वावन्तं बहुभिरश्वैरुपेतं गोमन्तं बहुभिर्गोभिरुपेतं सन्तं वाजमन्नं बलं वा ददातीतिशेषः ॥ २४ ॥ अहीनान्तर्गतेतिरात्रे प्रथमेपर्याये होतुःशस्त्रे पन्यंपन्यमितिस्तोत्रियस्तृचः छन्दोगैरस्य तृचस्य स्तूयमानत्वात् छन्दोगप्रत्ययं स्तोमस्तोत्रियइतिहि स्मर्यते ।