येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑ ।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ ।
स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥
हे इन्द्र येनात्मीयेनबलेन समुद्रं अव्धिं प्रति महीर्महतीः अपउदकानिअसृजः व्यसृजः महान्समुद्रोयावद्भिर्जलैः पूर्यते तावन्ति जलानि पुरा त्वं सृष्टवानित्यर्थः । ते त्वदीयं तच्छवोबलं वृष्णि वर्षकं अभीष्टफलदमित्यर्थः अस्येन्द्रस्य महिमा न संनशे न सम्यग्व्यापनीयः परैरप्रधृष्यइत्यर्थः । नशेः कृत्यार्थेकेन्प्रत्ययः । यं महिमानं क्षोणीः क्षोणी पृथिवी अनुचक्रदे अनुगच्छति क्रदिरत्रगत्यर्थः यदधीनावर्त- तइत्यर्थः ॥ १० ॥