मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ७

संहिता

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति ।
पुन॒र्यन्तरु॑णी॒रपि॑ ॥

पदपाठः

धा॒सिम् । कृ॒ण्वा॒नः । ओष॑धीः । बप्स॑त् । अ॒ग्निः । न । वा॒य॒ति॒ ।
पुनः॑ । यन् । तरु॑णीः । अपि॑ ॥

सायणभाष्यम्

अग्निरोषधीर्धासिमन्नम् । क्षु धासिरित्यन्ननामसुपाठात् । कृण्वानः कुर्वन् बप्सत् भक्षयन्न वायति नशाम्यति । पुनश्च तरुणीरोषधीरपि यन् गच्छन् भवति । भक्षयितुमिति शेषः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०