मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ४

संहिता

आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् ।
क उ॒ग्राः के ह॑ शृण्विरे ॥

पदपाठः

आ । बु॒न्दम् । वृ॒त्र॒ऽहा । द॒दे॒ । जा॒तः । पृ॒च्छ॒त् । वि । मा॒तर॑म् ।
के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥

सायणभाष्यम्

जातउत्पन्नोवृत्रहेन्द्रमिषुं तथाचयास्कः-बुन्दइषुर्भवतीति । आददे आदाय चेषुं उग्राः उद्गूर्णबलाः के केच श्रृण्विरे बीर्येण विश्रुताइति स्वमातरं विपृच्छत् अप्राक्षीत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२