मा सख्यु॒ः शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।
आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥
मा । सख्युः॑ । शून॑म् । आ । वि॒दे॒ । मा । पु॒त्रस्य॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
आ॒ऽवृत्व॑त् । भू॒तु॒ । ते॒ । मनः॑ ॥
हे प्रभूवसो प्रभूतधनेन्द्र ते तव सख्युः शूनं वृद्धं माविदे मावेदयामि पुत्रस्यापि शूनं माविदे तव मनः अस्मासु आवृत्वदावर्तनवद्भूतु भवतु पुनःपुनः सुखं करोत्वित्यर्थः ॥ ३६ ॥