बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।
जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥
बट् । ऋ॒त्विया॑य । धाम्ने॑ । ऋक्व॑ऽभिः । शू॒र॒ । नो॒नु॒मः॒ ।
जेषा॑म । इ॒न्द्र॒ । त्वया॑ । यु॒जा ॥
वट् सत्यं ऋत्वियाय ऋतौभवाय ऋतुशब्दोयागकालोपलक्षकः यागकाले प्रादुर्भूताय धाम्ने कल्याणतेजसे तुभ्यं हे सूरेन्द्र ऋक्कभिर्मन्त्रैर्नोनुमः अति- शयेन स्तुमः हे इन्द्र स्तुतेन त्वया युजा सहायभूतेन जषाम जयेम शत्रून् ॥ ११ ॥