यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः ।
स पा॑वक श्रुधी॒ हव॑म् ॥
यम् । त्वा॒ । गो॒पव॑नः । गि॒रा । चनि॑ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।
सः । पा॒व॒क॒ । श्रु॒धि॒ । हव॑म् ॥
हे अग्ने यं त्वा त्वां गोपवनऋषिर्गिरा स्तुत्या चनिष्ठदतिशयेनान्नप्रदातारमकरोत् सतादृशाग्ने अङ्गिरः सर्वत्रगन्तः अङ्गिरसांमध्ये एकवा पावक शोधक हवं गोपवनस्य श्रुधि शृणु ॥ ११ ॥