उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
सोम॑मिन्द्र च॒मू सु॒तम् ॥
उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।
सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥
हे इन्द्र त्वं पीत्वी पीत्वोजसा बलेन सहोत्तिष्ठन् शिमे हनु अवेपयः अकंपयः मदावेशादितिभावः । किं पीत्वा चमू चम्वोरधिषवणफलकयोः सुतं सोमम् ॥ १० ॥