न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।
तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥
न । यः । स॒म्ऽपृच्छे॑ । न । पुनः॑ । हवी॑तवे । न । स॒म्ऽवा॒दाय॑ । रम॑ते ।
तस्मा॑त् । नः॒ । अ॒द्य । सम्ऽऋ॑तेः । उ॒रु॒ष्य॒त॒म् । बा॒हुऽभ्या॑म् । नः॒ । उ॒रु॒ष्य॒त॒म् ॥
यः शत्रुः संपृच्छे संप्रश्नाय न रमते न क्रीडते । नच पुनःपुनर्हवीतवे हवनाय रमते । नचसंवादाय रमते । तस्माच्छत्रोः समृतेः संग्रामात् नोस्मान् अद्य उरुष्यतं हे मित्रावरुणौ युवां रक्षतम् । किंच तस्य शत्रोर्बाहुभ्यां नोस्मानुरुष्यतं रक्षतम् ॥ ४ ॥