त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे ।
इन्दो॒ त्वे न॑ आ॒शसः॑ ॥
त्वाम् । अच्छ॑ । च॒रा॒म॒सि॒ । तत् । इत् । अर्थ॑म् । दि॒वेऽदि॑वे ।
इन्दो॒ इति॑ । त्वे इति॑ । नः॒ । आ॒ऽशसः॑ ॥
हे इन्दो यागेषु क्लिद्यमान सोम त्वामच्छ त्वां प्रति चरामसि वयं चरामः । दिवेदिवे प्रतिदिनं अस्माकं तदित् तदेव तत्परिचरणमेवार्थं कार्यं नान्यत्कारणमस्ति । नोस्माकं आशसः आशंसनान्यपि त्वे त्वय्येव । नान्यत्र ॥ ५ ॥