ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ ।
धार॑या पवते सु॒तः ॥
ए॒षः । ऊं॒ इति॑ । स्यः । पु॒रु॒ऽव्र॒तः । ज॒ज्ञा॒नः । ज॒नय॑न् । इषः॑ ।
धार॑या । प॒व॒ते॒ । सु॒तः ॥
स्यः एषउ ससोमएव पुरुव्रतो बहुकर्मा जज्ञानो जायमानएव इषोन्नानि जनयन् उत्पादयन् सुतोभिषुतःसन् धारया पवते क्षरति ॥ १० ॥
सनाचेति दशर्चं सूक्तं अंगिरसकुलस्य हिरण्यस्तूपस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-सनहिरण्यस्तूपइति । उक्तोविनियोगः ।