त्वष्टा॑रमग्र॒जां गो॒पां पु॑रो॒यावा॑न॒मा हु॑वे ।
इन्दु॒रिन्द्रो॒ वृषा॒ हरि॒ः पव॑मानः प्र॒जाप॑तिः ॥
त्वष्टा॑रम् । अ॒ग्र॒ऽजाम् । गो॒पाम् । पु॒रः॒ऽयावा॑नम् । आ । हु॒वे॒ ।
इन्दुः॑ । इन्द्रः॑ । वृषा॑ । हरिः॑ । पव॑मानः । प्र॒जाऽप॑तिः ॥
अग्रजां अग्रेजातं गोपां प्रजानां पालयितारं पुरोयावानं देवानां पुरस्ताद्गन्तारं त्वष्टारं देवमाहुवे अहमाह्वयामि । यज्ञे हरिः हरितवर्णः पवमानः इन्दुः सोमः इन्द्रोदेवानामीश्वरो वृषा कामानांवर्षिताच प्रजापतिः प्रजानां पालयिताच भवतीति ॥ ९ ॥