परि॑ प्रि॒या दि॒वः क॒विर्वयां॑सि न॒प्त्यो॑र्हि॒तः ।
सु॒वा॒नो या॑ति क॒विक्र॑तुः ॥
परि॑ । प्रि॒या । दि॒वः । क॒विः । वयां॑सि । न॒प्त्योः॑ । हि॒तः ।
सु॒वा॒नः । या॒ति॒ । क॒विऽक्र॑तुः ॥
कविर्मेधावी कविक्रतुः क्रान्तप्रज्ञः क्रान्तकर्मावा सोमो नप्त्योरधिषवणफलकयोर्हितोनिहितः सुवानोभिषूयमाणो दिवोद्युलोकस्य परिप्रिया अतिप्रियाणि वयांसि ग्राव्णः तथा चमंत्रवर्णः-वयांसिश्येनाअतिथयः पर्वतानांककुभइति । याति गच्छति ॥ १ ॥