मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् ७

संहिता

तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
मृ॒जन्ति॑ दे॒वता॑तये ॥

पदपाठः

तम् । ऊं॒ इति॑ । त्वा॒ । वा॒जिन॑म् । नरः॑ । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।
मृ॒जन्ति॑ । दे॒वऽता॑तये ॥

सायणभाष्यम्

हे सोम तमु तमेव त्वा त्वां वाजिनमन्नवन्तं गमनवन्तं वा नरोनेतारो विप्रामेधाविनः अध्वर्य्वादयः धीभिः कर्मभिर्मृजन्ति शोधयन्ति देवतातये यज्ञार्थम् । किमिच्छवः अवस्यवः अन्नमिच्छवः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः