मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् ८

संहिता

मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः ।
चारु॑रृ॒ताय॑ पी॒तये॑ ॥

पदपाठः

मधोः॑ । धारा॑म् । अनु॑ । क्ष॒र॒ । ती॒व्रः । स॒धऽस्थ॑म् । आ । अ॒स॒दः॒ ।
चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥

सायणभाष्यम्

हे सोम त्वं मधोर्मधुररसस्य धारामनुक्षर प्रवहन् तीव्रः तीव्ररसः सन् सधस्थं सहस्थानं अभिषवस्थानं पवित्रंवा आसदः आसीद । चारुः चरणशीलःसन् ऋताय यज्ञार्थं पीत ये देवानां पानाय ॥ ८ ॥

परिसुवानइति सप्तर्चं अष्टादशं सूक्तम् । ऋष्यद्याः पूर्ववत् । परिसुवानः सप्तेत्यनुक्रान्तम् । गतोविनियोगः

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः