मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५२, ऋक् ३

संहिता

च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय ।
व॒धैर्व॑धस्नवीङ्खय ॥

पदपाठः

च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इन्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ ।
व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥

सायणभाष्यम्

हे सोमचरुर्न चरुरिव यः पूर्णोदनो भवति तमींखयास्मान्प्रापय । अपिच हे इन्दो न इदानीं दानं देयमींखय हे वधस्नो प्रहारेण प्रस्रवणशील सोम वधैर्ग्राण्वां प्रहारैरींखय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः