सो अ॒र्षेन्द्रा॑य पी॒तये॑ ति॒रो रोमा॑ण्य॒व्यया॑ ।
सीद॒न्योना॒ वने॒ष्वा ॥
सः । अ॒र्ष॒ । इन्द्रा॑य । पी॒तये॑ । ति॒रः । रोमा॑णि । अ॒व्यया॑ ।
सीद॑न् । योना॑ । वने॑षु । आ ॥
हे सोम सोभिषुतस्त्वं अव्यया अव्ययानि अविमयानि रोमाणि वालानि तिरस्तिरस्कुर्वन् वमेषु पात्रेषु योना योनौ स्थाने आसीदन्निन्द्रायेन्द्रस्य पीतये पानायार्ष क्षर ॥ ८ ॥