मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६२, ऋक् १३

संहिता

ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा॑न आ॒युभि॑ः ।
उ॒रु॒गा॒यः क॒विक्र॑तुः ॥

पदपाठः

ए॒षः । स्यः । परि॑ । सि॒च्य॒ते॒ । म॒र्मृ॒ज्यमा॑नः । आ॒युऽभिः॑ ।
उ॒रु॒ऽगा॒यः । क॒विऽक्र॑तुः ॥

सायणभाष्यम्

उरुगायो बहुस्तुतिः कविक्रतुः क्रांतप्रज्ञः क्रान्तकर्मा वा स्यः सएषोयं सोम आयुभिर्मनुष्यै- र्मर्मृज्यमानः शोध्यमानः परिषिच्यते ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६