मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६४, ऋक् १७

संहिता

म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा॑ समु॒द्रमिन्द॑वः ।
अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥

पदपाठः

म॒र्मृ॒जा॒नासः॑ । आ॒यवः॑ । वृथा॑ । स॒मु॒द्रम् । इन्द॑वः ।
अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥

सायणभाष्यम्

मर्मृजानासो मर्मृज्यमानाः आय्वोगन्तार इन्दवः सोमाः वृथायासं विनैव समुद्रमन्त- रिक्षं गच्छन्ति । एतदेव दर्शयति ऋतस्योदकस्य योनिं स्थानं आग्मन् गच्छन्तीति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९