यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह ।
पव॑मान॒ वि तज्ज॑हि ॥
यत् । अन्ति॑ । यत् । च॒ । दू॒र॒के । भ॒यम् । वि॒न्दति॑ । माम् । इ॒ह ।
पव॑मान । वि । तत् । ज॒हि॒ ॥
हे पवमान पूयमान पुनान वा सोम यद्भयमन्ति अन्तिके तथा यच्च भयं दुरके अतिदूरे देशे अथवा इहास्मिन् प्रदेशेपि भयं मां विन्दति लभते प्राप्नोति । तद्भयं त्वं विजहि विशेषेण नाशय । यद्वा इहेति यज्ञोयंलोकोवा अस्मिन् क्रियमाणेयज्ञे अस्मिन् लोकेवा यद्भयं व्याप्नोति तन्नाशये- त्यर्थः ॥ २१ ॥