मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४०

संहिता

उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते ।
राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥

पदपाठः

उत् । मध्वः॑ । ऊ॒र्मिः । व॒ननाः॑ । अ॒ति॒स्थि॒प॒त् । अ॒पः । वसा॑नः । म॒हि॒षः । वि । गा॒ह॒ते॒ ।
राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒ह॒त् । स॒हस्र॑ऽभृष्टिः । ज॒य॒ति॒ । श्रवः॑ । बृ॒हत् ॥

सायणभाष्यम्

मध्वः म्धुर्स्य्तोर्मीरसः वननाः वननीयावाचः उदतिष्ठिपत् उत्थापयति । सोमाभिषव- काले स्तुतिवाचः प्रवृत्तेः । अपोवसानः आच्छादयन् महिषोमहान् विगाहते प्रविशति कलशम् । राजा सोमः पवित्ररर्थः दशापवित्रं एवरथोयस्य सतथोक्तः तादृशः सोमोवाजं संग्राममारुहत् आरोहति । सहस्रभृष्टिः बहुभ्रंशः अपरिमितगमनो बृहच्छ्रवः महदन्नंजयति अस्यदर्थं ॥ ४० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९