मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९०, ऋक् ६

संहिता

ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व ।
इन्दो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒व । राजा॑ऽइव । क्रतु॑ऽमान् । अमे॑न । विश्वा॑ । घनि॑घ्नत् । दुः॒ऽइ॒ता । प॒व॒स्व॒ ।
इन्दो॒ इति॑ । सु॒ऽउ॒क्ताय॑ । वच॑से । वयः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

अनया स्तुतिमुपसंहरन् फलमाशास्ते । हेसोम एव एवं स्तुतइतिशेषः । क्रतुमांस्त्वं राजेव अमेन बलेन विश्वा सर्वाणिदुरिता दुरितानि घनिघ्नन् विनाशयन् पवस्व । हे इन्दो दीप्तसोम सूक्ताय शोभनमुदिताय वचसे अस्माकं स्तोत्राय तद्वचः विमृष्यार्थवदा- गत्य वयोधा अन्नंधेहि अन्नलाभस्य स्तितिनिमित्तकत्वात्तस्य स्तुतिवचसः प्राधान्येनोक्तिः शिष्टं सिद्धं ॥ ६ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये सप्तमाष्टके तृतीयोध्यायः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६