सोमा॑ः पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः ।
मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्य॑ः स्व॒र्विदः॑ ॥
सोमाः॑ । प॒व॒न्ते॒ । इन्द॑वः । अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑माः ।
मि॒त्राः । सु॒वा॒नाः । अ॒रे॒पसः॑ । सु॒ऽआ॒ध्यः॑ । स्वः॒ऽविदः॑ ॥
गातुवित्तमाः अतिशयेन मार्गस्य लंभकाः इन्दवोदीप्ताः सोमाः पवन्ते अस्मभ्यं अस्म- दर्थं क्षरन्ति आगच्छन्तिवा । कीदृशाः मित्रादेवानां सखिभूताः सुवानाः अभिषूयमाणाः अरेपसः पापरहिताः अतएव स्वाध्यः शॊभनध्यानाः स्वर्विदः सर्वज्ञाः सर्वप्रापकावा ॥ १० ॥