मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०७, ऋक् २०

संहिता

उ॒ताहं नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ बभ्र॒ ऊध॑नि ।
घृ॒णा तप॑न्त॒मति॒ सूर्यं॑ प॒रः श॑कु॒ना इ॑व पप्तिम ॥

पदपाठः

उ॒त । अ॒हम् । नक्त॑म् । उ॒त । सो॒म॒ । ते॒ । दिवा॑ । स॒ख्याय॑ । ब॒भ्रो॒ इति॑ । ऊध॑नि ।
घृ॒णा । तप॑न्तम् । अति॑ । सूर्य॑म् । प॒रः । श॒कु॒नाःऽइ॑व । प॒प्ति॒म॒ ॥

सायणभाष्यम्

हे बभ्रो बभ्रुवर्ण हे सोम उतापिच नक्तं उतापिच दिवा अहोरात्रयोः सख्याय सख्या र्थं तव ऊधनि समीपे अहं रमइति शेषः । ते वयं घृणा दीप्त्या तपन्तं ज्वलन्तं परः पर मस्थानस्थितं सूर्यं तदात्मकं त्वां प्राप्तुं अतिपप्तिम । कथमिव शकुनाइव यथा सुपर्णादयः पक्षिणः सूर्यं अतिगच्छन्ति तद्वत् पतॢगतौ अस्माच्छान्दसे लिटि तनिपत्योश्छन्दसीत्युप- धालोपः ॥ २० ॥ ग्रावस्तोत्रेभिरूपकरणे सोमेमृज्यामनेएकस्तृचः तत्र मृज्यमानइत्येषा तृतीया । सूत्रि- तंच—मृज्यमानः सुहस्त्यादशभिर्विवस्वतइति ।