मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०९, ऋक् ९

संहिता

इन्दु॑ः पुना॒नः प्र॒जामु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥

पदपाठः

इन्दुः॑ । पु॒ना॒नः । प्र॒ऽजाम् । उ॒रा॒णः । कर॑त् । विश्वा॑नि । द्रवि॑णानि । नः॒ ॥

सायणभाष्यम्

पुनानः पूयमानः । उराणः उरुकुर्वाणइतियास्कः । देवान् बहुकुर्वाणः इन्दुः सोमः नो स्माकं प्रजामपत्यादिकां विश्वानि व्याप्तानि द्रविणानि धनानि करत् करोतु । करोतेर्लङि रूपं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०