यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या ।
स्तवै॑ स॒हस्र॑दक्षिणे ॥
यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया ।
स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥
यस्य कुरुश्रवणाख्यस्य राज्ञः स्वभूतास्तिस्रोहरितः त्रयोश्वा रथे प्रस्थितं मा मां कषवं साधुया साधुवहंति कुरुश्रवणं राजानमहं सहस्रदक्षिणेस्मिन् यागे स्तवै स्तौमि प्रष्टिवा- हिनं रथं च परिगृह्य ऋषिराशास्ते ॥ ५ ॥ अतः परं यस्येत्यादिकेन सूक्तशेषेण मित्रातिथौ राज्ञि मृते तत्पुत्रस्योपमश्रवसः समी- पमागत्यकवषः स्नेहात् शोकं निवारयति ।