गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये॑न॒ मन॑सो॒त जि॒ह्वया॑ ।स वि॒श्वाहा॑ सु॒मना॑ यो॒ग्या अ॒भि सि॑षा॒सनि॑र्वनते का॒र इज्जिति॑म् ॥
गर्भे॑ । योषा॑म् । अद॑धुः । व॒त्सम् । आ॒सनि॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ ।
सः । वि॒श्वाहा॑ । सु॒ऽमनाः॑ । यो॒ग्याः । अ॒भि । स॒सा॒सनिः॑ । व॒न॒ते॒ । का॒रः । इत् । जिति॑म् ॥
ते मरुतो गर्भे मृताया गोर्मध्ये ग्राहके चर्मणि मृताया गोः सम्बन्धिनि योशां काञ्चिद्गामदधुः। धारितवन्तः। निश्चर्मणॊ गामरिणीत धीतिभिः। ऋ. १-१६१-७। इत्युक्तम्। तथासनि मृताया आस्ये वत्समदधुः। केन साधनेन। अपीच्येन मनसा देवत्वमाकाङ्क्षतोतापि च जिह्वया। साद्रुश्यप्रधानोऽयं निर्देशः। जिह्वावदायतय वाश्येत्यर्थः। यद्वा जिह्वया युक्तां योषामिति सम्बन्धः। सिषासनिः सम्भजनशीलः स ऋभुसङ्घो विश्वाहा सर्वेष्वहः सु सर्वदा योग्याः स्वोचिताः सुमनाः स्तितीरभिवनते। स च सङ्घो जितिं शत्रुजयं कामं कार इत् कर्तैव। शत्रुजयकर्तैव॥११॥