घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् ।
घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥
घृ॒तम् । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वर्ध॑नम् । घृ॒तम् । अन्न॑म् । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । मेद॑नम् ।
घृ॒तेन॑ । आऽहु॑तः । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । सूर्यः॑ऽइव । रो॒च॒ते॒ । स॒र्पिःऽआ॑सुतिः ॥
वध्र्यश्वस्य सम्बन्धिनोऽग्नेर्घृतं दीयमानं हविर्वर्धनं भवतु। तथा घृतमन्नमदनीयं भवतु। तथास्याग्नेर्घृतमु घृतमेव मेदनं पुश्तिकरं भवतु। येनाग्निः पुष्तो भवति तन्मेदनम् । तेन घृतेनाहुतोऽग्निरुर्वियोर्वत्यन्तं वि पप्रथे। स्वतेजसा विप्रथितो भवति। तथा सर्पिरासुतिः सर्पिरासूयते यस्मिन्निति सोऽग्निः सूर्य इव रोचते। दीप्यते॥२॥