मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०३, ऋक् २

संहिता

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥

पदपाठः

स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ ।
तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥

सायणभाष्यम्

अस्तु नामेन्द्र उक्तविधः तथाप्यस्माकं किमिति चेत् आह। सङ्क्रन्दनेनानिमिषेण चोक्तलक्षणेन जिष्णुना जयशीलेन युत्कारेण। योधनं युत्। य्द्द्धाकारिणा। कर्मण्यण्। दुश्च्यवनेनान्यैरविचाल्येन। च्युङ् प्रुङ् गतौ। छन्दसि गत्यर्थेभ्यः। पा. २-२-१२९। इति युच्। धृष्णुना धर्षकेन ईदृशेनेन्द्रेण तद्युद्धं जयत। शत्रुबलं सहध्वम् । अभिभवत। हे युधो योद्धारो हे नरो नेतारः। विभाषितं विशेषवचने बहुवचनम्। पा. ८-१-७४। इति पुर्वस्याविद्यमानवत्त्वनिषेधादुत्तरं निहन्यते। पुनः कीदृशेनेन्द्रेणेति। इषुहस्तेन वृष्ना वर्षित्रा च॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२