इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् ।
म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥
वृष्णो वर्षकस्येन्द्रस्य राज्ञो वरुणस्यादित्यानां मरुतां चोग्र मुद्गूर्णं शर्धो बलमस्माकं भवत्विति शेषः। किञ्च महामनसामुदारमनसां भुवनच्यवानां चावयितॄणां देवानां घोषो जयशबद् उदस्थात्। उत्तिष्ठति। अनूर्ध्वकर्मत्वादात्मनेपदाभावः। पा. १-३-३४॥९॥