प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥
प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् ।
वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥
यदिदं प्राचीनं प्रागञ्चितं प्राङ्मुखम् बर्हिरस्ति तदिदं पृथिव्या वेदिलक्षणाया वस्तोः। वस आच्छादने। तुन्प्रत्ययः। चतुर्थ्यर्थे बहुलं छन्दसिति षष्ठी। यद्वा। भावलक्षणे तोसुन् द्रष्टव्यः। वसनायाच्छादनार्थमह्नामग्रे पुर्वाह्णे प्रदिशा प्रकर्षेण दिश्यमानेन मन्त्रेणास्या प्राच्या दिशो व्रुज्यते। स्तूयते। आह्रियते। तथा च निगमः। त आ वहन्ति कवयः पुरस्तादित्यादि। तट्जाहृतं वरीय उरुतरं बर्हिर्वितरं विस्तीर्णतरं यथा भवति तथा विप्रथते। विविधमेव वेद्यां प्रस्तृतं भवति। तथा देवेभ्योऽदितये वेदिलक्शणायै पृथिव्यै च स्योनं सुखकरं भवति। विस्तीर्णे बर्हिषि देवाः सुखं निषीदन्ति॥४॥